गुर्वष्टक

शरीरं सुरूपं तथा वा कलत्रं — मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

देवता: श्री गुरू

मूळ शब्द

शरीरं सुरूपं तथा वा कलत्रं । यशश्चारु चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥ कलत्रं धनं पुत्रपौत्रादि सर्वं । गृहं बान्धवाः सर्वमेतद्धि जातम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥ षडङ्गादिवेदो मुखे शास्त्रविद्या । कवित्वादि गद्यं सुपद्यं करोति । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥ विदेशेषु मान्यः स्वदेशेषु धन्यः । सदाचारवृत्तेषु मत्तो न चान्यः । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥ क्षमामण्डले भूपभूपालबृन्दैः । सदा सेवितं यस्य पादारविन्दम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥ यशो मे गतं दिक्षु दानप्रतापा- ज्जगद्वस्तु सर्वं करे यत्प्रसादात् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥ न भोगे न योगे न वा वाजिराजौ । न कान्तामुखे नैव वित्तेषु चित्तम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥ अरण्ये न वा स्वस्य गेहे न कार्ये । न देहे मनो वर्तते मे त्वनर्घ्ये । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे । ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥ गुरोरष्टकं यः पठेत्पुण्यदेही । यतिर्भूपतिर्ब्रह्मचारी च गेही । लभेद्वाञ्छितार्थं पदं ब्रह्मसञ्ज्ञं । गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

पूजा बुक करायची आहे?

अनुभवी, पडताळणी केलेले पुरोहित संपूर्ण वैदिक विधीसह पूजा करतील.

पूजा बुक करा

दत्त व गुरू — स्तोत्रे

४ स्तोत्रे
🙏

पुरोहितांचे प्रोफाइल पाहा

पुरोहितांचे संपूर्ण प्रोफाइल, माहिती, सेवा, फोटो, अभिप्राय व उपलब्धता पाहण्यासाठी व याच पुरोहितांची पूजा बुक करण्यासाठी मोफत खाते तयार करा किंवा लॉगिन करा.

VedPurohit ॲपपंचांग, आरती, पूजा बुकिंग व कुंडली — मोबाईलवर, इंटरनेटशिवायही. ॲप डाउनलोड करा

WhatsApp वर मदत

खाते न बनवताही विचारा — आमची टीम WhatsApp वर लवकर उत्तर देईल.

कशासाठी मदत हवी?

कोणती पूजा, कधी व कुठे — आम्ही योग्य पुरोहित व दक्षिणा कळवू.

संदेश असा जाईल
WhatsApp वर पाठवा

"पाठवा" दाबल्यावर हा संदेश WhatsApp मध्ये उघडेल; तिथे तुम्ही तो बदलू शकता.