पुरुषसूक्त
सहस्रशीर्षा पुरुषः — षोडशोपचार पूजेत प्रत्येक उपचाराला एक ऋचा
देवता: श्री विष्णू (पुरुष)
मूळ शब्द
ओम् । तच्छंयोरावृणीमहे ।
गातुं यज्ञाय ।
गातुं यज्ञपतये ।
दैवी स्वस्तिरस्तु नः ।
स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् ।
शं नो अस्तु द्विपदे ।
शं चतुष्पदे ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
(तै.आ.३-१२-१)
सहस्रशीर्षा पुरुषः ।
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा ।
अत्यतिष्ठद्दशाङ्गुलम् ॥ १ ॥
पुरुष एवेदं सर्वम् ।
यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानः ।
यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमा ।
अतो ज्यायाग्श्च पूरुषः ।
पादोऽस्य विश्वा भूतानि ।
त्रिपादस्यामृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्व उदैत्पुरुषः ।
पादोऽस्येहाऽऽभवात्पुनः ।
ततो विष्वङ्व्यक्रामत् ।
साशनानशने अभि ॥ ४ ॥
तस्माद्विराडजायत ।
विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत ।
पश्चाद्भूमिमथो पुरः ॥ ५ ॥
यत्पुरुषेण हविषा ।
देवा यज्ञमतन्वत ।
वसन्तो अस्याऽऽसीदाज्यम् ।
ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
सप्तास्याऽऽसन्परिधयः ।
त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वानाः ।
अबध्नन्पुरुषं पशुम् ॥ ७ ॥
तं यज्ञं बर्हिषि प्रौक्षन्न् ।
पुरुषं जातमग्रतः ।
तेन देवा अयजन्त ।
साध्या ऋषयश्च ये ॥ ८ ॥
तस्माद्यज्ञात् सर्वहुतः ।
संभृतं पृषदाज्यम् ।
पशूग्स्ताग्श्चक्रे वायव्यान् ।
आरण्यान् ग्राम्याश्च ये ॥ ९ ॥
तस्माद्यज्ञात् सर्वहुतः ।
ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् ।
यजुस्तस्मादजायत ॥ १० ॥
तस्मादश्वा अजायन्त ।
ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् ।
तस्माज्जाता अजावयः ॥ ११ ॥
यत्पुरुषं व्यदधुः ।
कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू ।
कावूरू पादावुच्येते ॥ १२ ॥
ब्राह्मणोऽस्य मुखमासीत् ।
बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः ।
पद्भ्यां शूद्रो अजायत ॥ १३ ॥
चन्द्रमा मनसो जातः ।
चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च ।
प्राणाद्वायुरजायत ॥ १४ ॥
नाभ्या आसीदन्तरिक्षम् ।
शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् ।
तथा लोकां अकल्पयन् ॥ १५ ॥
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः ।
नामानि कृत्वाऽभिवदन् यदास्ते ॥ १६ ॥
धाता पुरस्ताद्यमुदाजहार ।
शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था अयनाय विद्यते ॥ १७ ॥
यज्ञेन यज्ञमयजन्त देवाः ।
तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्ते ।
यत्र पूर्वे साध्याः सन्ति देवाः ॥ १८ ॥
अद्भ्यः संभूतः पृथिव्यै रसाच्च ।
विश्वकर्मणः समवर्तताधि ।
तस्य त्वष्टा विदधद्रूपमेति ।
तत्पुरुषस्य विश्वमाजानमग्रे ॥ १९ ॥
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्णं तमसः परस्तात् ।
तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था विद्यतेऽयनाय ॥ २० ॥
प्रजापतिश्चरति गर्भे अन्तः ।
अजायमानो बहुधा विजायते ।
तस्य धीराः परिजानन्ति योनिम् ।
मरीचीनां पदमिच्छन्ति वेधसः ॥ २१ ॥
यो देवेभ्य आतपति ।
यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातः ।
नमो रुचाय ब्राह्मये ॥ २२ ॥
रुचं ब्राह्मं जनयन्तः ।
देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात् ।
तस्य देवा असन् वशे ॥ २३ ॥
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ।
अहोरात्रे पार्श्वे ।
नक्षत्राणि रूपम् ।
अश्विनौ व्यात्तम् ।
इष्टं मनिषाण ।
अमुं मनिषाण ।
सर्वं मनिषाण ॥ २४ ॥
ओम् । तच्छंयोरावृणीमहे ।
गातुं यज्ञाय ।
गातुं यज्ञपतये ।
दैवी स्वस्तिरस्तु नः ।
स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् ।
शं नो अस्तु द्विपदे ।
शं चतुष्पदे ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
पूजा बुक करायची आहे?
अनुभवी, पडताळणी केलेले पुरोहित संपूर्ण वैदिक विधीसह पूजा करतील.