देवीसूक्त (वैदिक — वागाम्भृणी सूक्त)
अहं रुद्रेभिर्वसुभिश्चराम्यहम् — सप्तशती पाठ से पहले
देवता: श्री देवी
मूल पाठ
पवित्र पाठ मूल भाषा में ही दिया गया है।
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १ ॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २ ॥
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३ ॥
मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति यईं श्रुणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४ ॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५ ॥
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६ ॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वऽ१न्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७ ॥
अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
पूजा बुक करनी है?
अनुभवी, सत्यापित पंडित पूर्ण वैदिक विधि से पूजा करेंगे।