ही वेबसाइट मराठी मध्ये पाहायची? होय, बदला

Bhaja Govindam (Moha Mudgara)

Bhaja Govindam Bhaja Govindam — by Shankaracharya

Deity: श्रीकृष्ण

Original text

The sacred text is kept in its original language.

मोहमुद्गरः (भज गोविन्दं) भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले न हि न हि रक्षति डुकृञ् करणे ॥ १ ॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २ ॥ नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ ३ ॥ नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ४ ॥ यावद्वित्तोपार्जनसक्त- -स्तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥ बालस्तावत्क्रीडासक्त- -स्तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयात- -स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥ सत्सङ्गत्वे निःसङ्गत्वं निःसङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः ॥ १० ॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥ दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायु- -स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥ का ते कान्ताधनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥ १३ ॥ जटिली मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥ अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवास- -स्तदपि न मुञ्चत्याशापाशः ॥ १६ ॥ कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहिनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥ सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ १८ ॥ योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गवीहिनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९ ॥ भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे ॥ २१ ॥ रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः । योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ॥ २२ ॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥ त्वयि मयि चान्यत्रैको विष्णु- -र्व्यर्थं कुप्यसि मय्यसहिष्णुः । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥ कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम् । आत्मज्ञानविहीना मूढा- -स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥ गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥ सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ २८ ॥ अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥ प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् । जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ ३० ॥ गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानसनियमादेव द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मोहमुद्गरः सम्पूर्णम् ।

Want to book a puja?

Experienced, verified pandits will perform it with the complete Vedic ritual.

Book a Puja

Vishnu & Krishna — Stotras

7 stotras
🙏

See the purohit's profile

Create a free account or log in to see the full profile — details, services, photos, reviews and availability — and to book this purohit.

VedPurohit appPanchang, aartis, puja booking and kundli — on your phone, even offline. Get the app

Help on WhatsApp

No account needed — our team replies quickly on WhatsApp.

What do you need help with?

Which puja, when and where — we will suggest the right purohit and dakshina.

Your message
Send on WhatsApp

Tapping Send opens this message in WhatsApp, where you can still edit it.