ही वेबसाइट मराठी मध्ये पाहायची? होय, बदला

Shri Dattatreya Stotram (by Narada)

Jatadharam Pandurangam Shulahastam Kripanidhim

Deity: श्री दत्त

Original text

The sacred text is kept in its original language.

जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १ ॥ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान्नारदऋषिः, अनुष्टुप् छन्दः, श्रीदत्तः परमात्मा देवता, श्रीदत्त प्रीत्यर्थे जपे विनियोगः । नारद उवाच । जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते ॥ १ ॥ जराजन्मविनाशाय देहशुद्धिकराय च । दिगम्बर दयामूर्ते दत्तात्रेय नमोऽस्तु ते ॥ २ ॥ कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च । वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ ३ ॥ ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित । पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तु ते ॥ ४ ॥ यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तु ते ॥ ५ ॥ आदौ ब्रह्मा हरिर्मध्ये ह्यन्ते देवः सदाशिवः । मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते ॥ ६ ॥ भोगालयाय भोगाय योगयोग्याय धारिणे । जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ ७ ॥ दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तु ते ॥ ८ ॥ जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने । जयमान सतां देव दत्तात्रेय नमोऽस्तु ते ॥ ९ ॥ भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे । नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तु ते ॥ १० ॥ ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले । प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तु ते ॥ ११ ॥ अवधूत सदानन्द परब्रह्मस्वरूपिणे । विदेहदेहरूपाय दत्तात्रेय नमोऽस्तु ते ॥ १२ ॥ सत्यरूप सदाचार सत्यधर्मपरायण । सत्याश्रय परोक्षाय दत्तात्रेय नमोऽस्तु ते ॥ १३ ॥ शूलहस्त गदापाणे वनमालासुकन्धर । यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोऽस्तु ते ॥ १४ ॥ क्षराक्षरस्वरूपाय परात्परतराय च । दत्त मुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तु ते ॥ १५ ॥ दत्त विद्याढ्य लक्ष्मीश दत्त स्वात्मस्वरूपिणे । गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तु ते ॥ १६ ॥ शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् । सर्वपापं शमं याति दत्तात्रेय नमोऽस्तु ते ॥ १७ ॥ इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् । दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८ ॥ इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्रम् ।

Want to book a puja?

Experienced, verified pandits will perform it with the complete Vedic ritual.

Book a Puja

Datta & Guru — Stotras

4 stotras
🙏

See the purohit's profile

Create a free account or log in to see the full profile — details, services, photos, reviews and availability — and to book this purohit.

VedPurohit appPanchang, aartis, puja booking and kundli — on your phone, even offline. Get the app

Help on WhatsApp

No account needed — our team replies quickly on WhatsApp.

What do you need help with?

Which puja, when and where — we will suggest the right purohit and dakshina.

Your message
Send on WhatsApp

Tapping Send opens this message in WhatsApp, where you can still edit it.