ही वेबसाइट मराठी मध्ये पाहायची? होय, बदला

Shri Mayuresha Stotra

Puranapurusham Devam — hymn to Mayureshwar of Morgaon (by Brahma)

Deity: श्री गणेश

Original text

The sacred text is kept in its original language.

ब्रह्मोवाच । पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ १ ॥ परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ २ ॥ सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ ३ ॥ नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् । नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ४ ॥ इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् । सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ५ ॥ सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् । सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥ ६ ॥ पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् । भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ७ ॥ मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् । समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ ८ ॥ सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् । सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ९ ॥ अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् । अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ॥ १० ॥ मयूरेश उवाच । इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् । सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम् ॥ ११ ॥ कारागृहगतानां च मोचनं दिनसप्तकात् । आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥ १२ ॥ इति मयूरेश स्तोत्रम् ।

Want to book a puja?

Experienced, verified pandits will perform it with the complete Vedic ritual.

Book a Puja

Ganapati — Stotras

5 stotras
🙏

See the purohit's profile

Create a free account or log in to see the full profile — details, services, photos, reviews and availability — and to book this purohit.

VedPurohit appPanchang, aartis, puja booking and kundli — on your phone, even offline. Get the app

Help on WhatsApp

No account needed — our team replies quickly on WhatsApp.

What do you need help with?

Which puja, when and where — we will suggest the right purohit and dakshina.

Your message
Send on WhatsApp

Tapping Send opens this message in WhatsApp, where you can still edit it.