ही वेबसाइट मराठी मध्ये पाहायची? होय, बदला

Shri Saraswati Stotram

Ya Kundendu Tushara Hara Dhavala — by sage Agastya

Deity: श्री सरस्वती

Original text

The sacred text is kept in its original language.

या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १ ॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २ ॥ सुरासुरैः सेवितपादपङ्कजा करे विराजत् कमनीयपुस्तका । विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ३ ॥ सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ४ ॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ५ ॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ ६ ॥ नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ ७ ॥ शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ ८ ॥ मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ ९ ॥ मनोन्मनि महायोगे वागीश्वरि नमो नमः । वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ १० ॥ वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ ११ ॥ सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ १२ ॥ योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ १३ ॥ अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ १४ ॥ अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ १५ ॥ ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥ १६ ॥ पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥ १७ ॥ महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ १८ ॥ कमलाकरपुष्पा च कामरूपे नमो नमः । कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ १९ ॥ सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ २० ॥ इत्थं सरस्वतीस्तोत्रमगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ २१ ॥ इति अगस्त्यमुनि प्रोक्त श्री सरस्वती स्तोत्रम् ॥

Want to book a puja?

Experienced, verified pandits will perform it with the complete Vedic ritual.

Book a Puja

Lakshmi & Saraswati — Stotras

4 stotras
🙏

See the purohit's profile

Create a free account or log in to see the full profile — details, services, photos, reviews and availability — and to book this purohit.

VedPurohit appPanchang, aartis, puja booking and kundli — on your phone, even offline. Get the app

Help on WhatsApp

No account needed — our team replies quickly on WhatsApp.

What do you need help with?

Which puja, when and where — we will suggest the right purohit and dakshina.

Your message
Send on WhatsApp

Tapping Send opens this message in WhatsApp, where you can still edit it.