Shani Stotra by Dasharatha
Namah Krishnaya Nilaya Shitikantha Nibhaya Cha — for Sade Sati, on Saturdays
Deity: श्री शनी
Original text
The sacred text is kept in its original language.
नमः कृष्णाय नीलाय शितिकण्ठ निभाय च ।
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ १ ॥
नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयाकृते ॥ २ ॥
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥ ३ ॥
नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नमः ।
नमो घोराय रौद्राय भीषणाय कपालिने ॥ ४ ॥
नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते ।
सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च ॥ ५ ॥
अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तु ते ॥ ६ ॥
तपसा दग्ध-देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ७ ॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ ८ ॥
देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगाः ।
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ ९ ॥
प्रसादं कुरु मे सौरे वरदो भव भास्करे ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥ १० ॥
Want to book a puja?
Experienced, verified pandits will perform it with the complete Vedic ritual.